अनुबन्धिनी यथा—(माघ. १३.१६)
इह/भ—तुङ्गकुम्भघटितेतरेतरस्तनभारदूरविनिवारितोदरम्/राः।
परिफुल्लेगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः॥ १०३॥
प्रकृष्टा यथा—(उराच. ६.८)
दिनकरकुलचन्द्र चन्द्रकेतो ! सरभसमेहि दृढं परिष्वजे त्वाम्।
तुहिनशकलशीतलैस्तवाङ्गैः शममुपयातु ममापि चित्तदाहः॥ १०४॥
संपृक्ता यथा—(मामा. ९.३८)
तदेतदसितोल्लसद्द्युति शरीरमस्मिन्नभू— न्ममापि दृढपीडनैरपि न तृप्तिरालिङ्गनैः।
यदुल्लसितविभ्रमाञ्चितनिपीतवत्यः पुरा नवप्रणयविभ्रमाकुलितमालतीदृष्टयः ॥ १०५॥
अनुगामिनी यथा—(शाकु. ४.११)