राज्ञामुद्दामदोष्णां रणशिरसि लसत्कीकसच्छेदभीमाः शस्त्राणां क्वाणकाराः प्रतिहितगुरवो यच्छ्रुते/र्दोहदो/नोऽभूत्॥ ९९॥
संपृक्ता यथा—(उराच. ६.१७)
अथ कोऽयमिन्द्रमणिमेचकच्छविर्ध्वनिनैव बद्धपुलकं करोति माम्।
नवनीलनीरधरधीरगर्जितक्षणलब्धकुट्मलकदम्बदन्तुरम्॥ १००॥
अनुगामिनी यथा—(मामा. ६.४)
अस्माकमेकपद एव मरुद्विकीर्णजीमूतजालरसितानुकृतिर्निनादः।
गम्भीरमङ्गलमृदङ्गसहस्रजन्मा शब्दान्तरग्रहणशक्तिमपाकरोति॥ १०१॥
स्पर्शे जाता यथा—(कुसं. १.१५)
भागीरथीनिर्झरशीकराणां वोढा मुहुः कम्पितदेवदारुः।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः॥ १०२॥