अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम्।
मदेन मीलन्नयनाः सलीलं नागा इव स्त्रस्तकरा निषेदुः॥ १०४॥
प्रहरकमपनीय स्वं निनिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति ।
मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः॥ १०५॥
निद्रादिकार्यं सुप्तम्। तस्य
आश्लेषिणः पृथुतरक्लमपीतशीतमायामिनीं घनमदो रजनीर्युवानः।
ऊर्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ १०६॥