ओसुअइ दिण्णपडिवक्खवेअणं पसिढिलेहि अंगेहिं।
णिव्वत्तिअ-सुरअ-रसाणुबंधसुहणिब्भरं सुण्हा॥ १०७॥
(अवस्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः।
निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा॥)
लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्त्रस्तरे सोपधाने।
परिहरति सुषुप्तिं हालिकद्वन्द्वमारात् कुचकलशमहोष्माबद्धरेखस्तुषारः॥ १०८॥
सम्पर्को यथा—(कुसं. ५.५७)
त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसाऽप्यबुध्यत।