भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 381 to 390 of 1849 verses
तत् पाण्डित्यं न पतति पुनर्येन संसारचक्रे सा सन्मैत्री न चलति पुनर्या सुखे चासुखे च।

सम्भोगास्ते म/र—तिषु विदुषां ये न वाच्याः परेषां तच्चैश्वर्यं जगति महतां यत् परेषां सुखाय॥ ११४॥

पुरुषार्थान्तरे पुनरस्य धीरोदात्तादिभ्योऽपि महान् विशेष इव लभ्यते। तद्यथा—

किमप्यहिंस्यस्तव चेन्मतोऽहं यशश्शरीरे भव मे दयालुः।

एकान्ताविध्वंसिषु मद्‌विधानां पिण्डेष्वनास्था खलु भौतिकेषु॥ (रघु. २.५७)

यथा वा—(किराता. २.३०)

सहसा विदधीत न क्रियामाविवेकः परमापदां पदम्।

वृणते हि विमृश्‍यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥ ११६॥

अथैषामपि मिथस्संसर्गभेदा भवन्ति। ते तु यद्यपि बहुत्वात् संख्यातुमशक्यास्तथापि लेशतः कथ्यन्ते। तेषु —

धीरोदात्तप्रशान्तो यथा—

Showing 381 to 390 of 1849 verses