भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 371 to 380 of 1849 verses
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा— देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः।

ईषद्वर्तितकन्धरः सपुलकस्वेदोल्लसन्मानसा— मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥ १११॥

४३. धीरललितासाधारणधृष्टमध्यमो यथा—(सूमु. २३)

प्रसादे वर्तस्व, प्रकटय मुदं, संहर रुषं प्रिये! शुष्यत्यङ्गान्यमृतमिव ते सिञ्चतु वचः।

निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे! प्रत्येतुं प्रभवति गतः कालहरिणः॥ ११२॥

४४. धीरललितसाधारणधृष्टमध्यमो यथा—

आधातुं विनयं निरागसि जने कुप्यन्तु नामेश्वरा— स्तेन स्मारय/स्वाशय शुद्धिरेव सुवचा प्रायः प्रभूणां पुरः।

मिथ्या मानिनि! मन्यसे यदि तदा नित्यं मनोवर्तिनी वाच्या तामरसाक्षि! साक्षिपदके का वा त्वदन्या मया॥ ११३॥

(धीरप्रशान्तः—८)

धीरप्रशान्तोऽपि धीरोदात्तवदष्टधैव। तस्य तु धीरप्रशान्तानुकूलप्रतिभेदा यद्यपि विद्यन्ते; तथापि सत्त्वातिरेकादगाढसम्भोगत्वेन नोपलक्ष्यन्ते। तथा ह्येतद्‌विषये सुभाषितानीत्थमध्यगीष्महि—

Showing 371 to 380 of 1849 verses