बिम्बं कठोरबिसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति॥ १२०॥
स्तनभुवि नवभा/हारतारकान्तिर्मलयजपत्रलतारुचिः कपोलो।
विचकिलकलिकाकलापकल्पः शिरसि विराजति चन्द्रिका वधूनाम्॥ १२१॥
दिक्कामिनीवदनचन्दनचूर्णमुष्टिस्त्रैलोक्यमन्दिरमनोहरसौधभित्तिः ।
हृष्यन्मनोहरविपाण्डरहासकान्तिर्ज्योत्स्ना शशाङ्कसितकीर्त्तिरिवोल्लास॥ १२२॥
कपाले मार्जारः पय इति॰॥ १२३॥