क्व नीलकण्ठ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना॥ १०९॥
ण कुणंचो चिअ माणं णिसासु सुह-सुत्त-दर-विबुद्धाणं।
सुण्णइअ-पास-परिमूसण-वेअणं जइ सि जाणंतो॥ ११०॥
(नाकरिष्य एव मानं निशासु सुखसुप्तदरविबुद्धानाम्।
शून्योकृतपार्श्वपरिमोषणवेदनां यद्यज्ञास्यः॥)
निद्रात्ययेषु चेतनालाभः प्रबोधः। तस्यष
स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम्।