वत्सच्छद्मा पुनर्वत्सस्स एवालिङ्ग्यते मया॥ ९६॥
(२.६) वैषयिकी पुनः पञ्चधा। तत्र—
शब्दे जाता यथा—(उराच. ५.१७)
एते ते कुहरेषु गद्गदनद्गोदावरीवारयो मेघालिङ्गिततुङ्गनीलशिखराः क्षीणीभृतो दक्षिणाः।
अन्योन्यप्रतिघातसंकुलदलत्कल्लोलकोलाहलै— रुतालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः॥ ९७॥
नाधन्यैः क्षणदाविराममधुराः किञ्चिद्विनिद्रालस— श्रोत्रैकव्रमुग्धचारणवधूदन्तच्छादायासिनः ।
श्रूयन्ते मृदुपीतवक्त्रमरुतः पौराणरीतिक्रम— व्यालोलाङ्गुलिरुद्धमुक्तसुषिरश्रोणीरवा वेणवः॥ ९८॥
अव्यात् स्वर्लोकचूडामणिपटलशिखाश्रेणिशोणीकृताङ्घ्रौ क्षोणीभारं विनेतुं जठरजुषि जगद्बान्धवे देवकी वः।