विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन— स्तदौद्धत्यं क्वापि व्रजति विनयः प्रह्वयति माम्।
झटित्यस्मिन् दृष्टे किमपि परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः॥ ९०॥
अनुगामिनी यथा—(उराच. ५.१६)
यदृच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः।
निजो वा सम्बन्धः किमु विधिवशात् कोऽप्यविदितो ममैतस्मिन् दृष्टे हृदयमवधानं रचयति॥ ९१॥
मुनिजनशिशुरेकः सर्वतः संप्रकोपान्नव इव रघुवंशस्याप्रसिद्धः/द्धि-प्ररोहः।
दलितकरिकपोलग्रन्थिटङ्कारघोरज्वलितशरसहस्त्रः कौतुकं मे करोति।
अनुबन्धिनी यथा—(उराच. ४.१९)