प्रकृष्टा प्रवृद्धा यथा—(उराच. ३.२४)
ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः स्फुटितकमलामोदप्रायाः प्रया/वान्तु वनानिलाः।
कलमविरलं रजयत्कण्ठाः क्वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः॥ ८४॥
संपृक्ता यथा—(वारा. ७.४०.२३)
तदङ्गेषु जरां यातु यत् त्वयोपकृतं मम।
नरः प्रत्युपकाराणामापत्सु लभते फलम्॥ ८५॥
अनुगामिनी यथा—(शाकु. ७.२)
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन।
आमृष्ट—वक्षो—हरिचन्द्रनाङ्का मन्दारमाला हरिणा पिनद्धा॥ ८६॥