परितस्तं पृथासूनुर्लोभेन परितस्तेर।
अविज्ञातेऽपि बन्धौ हि बलात् प्रह्लादते मनः॥ ८७॥
अनुबन्धिनी यथा—(विक्रमो. ५.९)
बाष्पान्विता निपतिता मम दृष्टिरस्मिन् वात्सल्यबन्धि हृदयं मनसः प्रमोदः।
सञ्जातवेपथुभिरुज्झितधैर्यवृत्तिरिच्छामि चैनमदयं परिरब्धुमङ्गैः॥ ८८॥
प्रकृष्टा यथा—(शाकु. ७.१९)
अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैतत्।
कां निर्वृतिं चेतसि तस्य कुर्याद् यस्यायमङ्गात् कृतिनः प्रारूढः॥ ८९॥
संपृक्ता यथा—(उराच. ६.११)