भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 381 to 390 of 2002 verses
यथा वेणीसंहारे प्रथमेऽङ्के सूत्रधारः— (वेसं. १.६)

निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन।

रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः॥

इति सूत्रधारवचनममृष्यमाणः क्रुध्यन्

भीमसेनः प्राह — आः दुरात्मन् वृथामङ्गलपाठक शैलूषापसद !

लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।

आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ?॥ ८९॥

(वेसं. १.७)

इति भीमसेनेनोक्ते

सहदेव आह— 'आर्य ! अनुमतमेवास्य नो भरतपुत्रवचनम्। तथाहि— 'निर्वाण वैरदहना इत्यन्यथास्य व्याख्यानम्' इत्युक्त्वा, 'रक्तप्रसाधितभुवः क्षतविग्रहाः स्वर्गस्था भवन्तु' इति अन्यथा व्याचष्टे। १४.(२.४) मूर्खजनसन्निकर्षे हितमपि यत्र प्रभाषते विद्वान्। न च गृह्यतेऽस्य वचनं विज्ञेयोऽसत्प्रलापोऽसौ॥ ९०॥(नाशा. १८.१११) यथा— रामाभ्युदये द्वितीयेऽङ्के

Showing 381 to 390 of 2002 verses