न ह्यशृङ्गारिणः कश्चिदपि प्रकर्षगामी अप्रकर्षगामी वा भावः सम्भवति। शृङ्गारी हि 'रमते, उत्सहते, हसति, विस्मयते, जुगुप्सते, शोचते, बिभेति, शाम्यति, स्निह्यति, गर्वायते, अभिमन्यत' इति।
अथ रतिप्रकृतिरेव शृङ्गारो हास्यरसीभवति, तन्न घटते, शृङ्गारस्य हास्यव्यपदेशाभावात्। अथोच्यते—
शृङ्गारानुकृतिर्येह स हास्यो रस इष्यते॥ ७७॥
वीरस्यानुकृतिर्येह सोऽपि हास्य इतीष्यताम्॥ ७८॥
एतेन 'रौद्रात्तु करुणो रस' इत्यपि प्रत्युक्तम्। न हि रौद्रात् करुणो जायते, नापि रौद्रः करुणो भवति।
अथ रौद्रस्य यत् कर्म करुणस्स निगद्यते॥ ७९॥