पश्यन् गौरीं भयचलकरालम्बितस्कन्दहस्तां मन्ये प्रीत्या द्रुत इव भवान् वज्रदेहोऽभिजातः॥ ७१॥
रौद्रादपि न दृश्यते, यथा—(किराता. ३.२१)
निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम्।
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः॥ ७२॥
वीरादन्यतोऽप्यद्भुतो दृश्यते, यथा—
कासुखहेहु कोत्ति आइ अज्जण्ण उप्पाओ।
पिअसंगम सहणट्टाणिसस संघाणिसुंपुड जाइ॥ ७३॥
वीरादपि न दृश्यते, यथा—(शाकु. २.१५)
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री— मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति।
आशंसन्ते सुरयुवतयः सक्तवैरा हि दैत्यै— रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे॥ ७४॥