भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 361 to 370 of 1770 verses
राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम्।

आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया— त्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तते॥ ९७॥

हस्ताध्यायपदाध्याययोः अकथिताङ्गिकाद्यभिनयविशेषश्चित्रः, यथा—)

व्यतिकर इव भीमस्तामसो वैद्युतश्च क्षणमुपहतचक्षुर्वुत्तिरुद्‍भूय शान्तः।

कथमिह न वयस्यस्तत् किमेतत् किमन्यत् प्रभवति हि महिम्ना स्वेन योगेश्वरीयम्॥ ९८॥

(मामा.९.५४,१०.८)

(१६. अध्येयम् —६)

विधिनिषेधव्युत्पत्तिहेतुरध्येयम्। तत्तु षोढा—

काव्यं, शास्त्रम्, इतिहासः, काव्यशास्त्रं, काव्येतिहासः, शास्त्रेतिहास इति। तेषु उक्तिप्रधानं काव्यं, यथा—

यदि स्मरामि तां तन्वीं जीविताशा कुतो मम।

Showing 361 to 370 of 1770 verses