वाचस्ताः क्व जितार्णवध्वनिघनाः क्वायं वचस्संयमो हेलाकम्पितभूधरः क्व चरणन्यासः क्व मन्दा गतिः॥ ९४॥
दुर्वारां मदनशरव्यथां वहन्त्या तन्वङ्गया यदभिहितं पुरः सखीनाम्।
तद् भूयः शिशुशुकशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति॥ ९५॥
चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतः (उराच. ४.२०)
सात्त्विको यथा—(मामा. १.३५)
वारंवारं तिरयति दृशोरुद्वमन् बाष्पपूर— स्तत्संकल्पोपहितजडिम स्तम्भमभ्येति गात्रम्।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि॥ ९६॥
उक्तानां चतुर्णामपि प्रयोगे सामान्यः, यथा—(मामा. ५.३८)