अथ विस्मृत्य जीवामि जीवितव्यसनेन किम्॥ ९९॥
विधायकादिशब्दप्रधानं शास्त्रं, यथा—(बृहत्सं ७०.१)
स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः पादौ समोपचितचारुनिगूढगुल्फौ।
श्लिष्टाङ्गुली कमलकान्तितलौ च यस्या— स्तामुद्वहेद् यदि भुवोऽधिपतित्वमिच्छेत्॥ १००॥
हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाऽप्युदैक्षत।
भयभ्रान्तैस्सुरैश्चक्रे तस्यै तस्यै दिशे नमः॥ १०१॥
शास्त्रे काव्यविनिवेशः काव्यशास्त्रं, यथा—
नान्दीपदानि रतनाटकविघ्नशान्तावाज्ञाक्षराणि परमाण्यथवा स्मरस्य।
दष्टेऽधरे प्रणयिना विधुताग्रपाणिसीत्कारशुष्करुदितानि जयन्ति नार्याः॥ १०२॥