भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 371 to 380 of 1530 verses
बीभत्सादन्यतोऽपि भयानको दृश्यते, यथा—(किराता. ३.१९)

यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्‍त इवान्तकोऽपि।

धुन्वन् धनुः कस्य रणे न कुर्यान्मनो भयैकप्रवणं स भीष्मः॥ ७५॥

बीभत्सादपि न दृश्यते, यथा—(मवीच. ५.२९)

तत्क्रूरदन्तकरपत्रनिकृत्तसत्त्वसङ्घातनिस्सरदसृक्प्लुतकूर्चगुच्छम् ।

वक्त्रं वपुश्च विकृताकृति दीर्घबाहोरार्येण राक्षसकुतूहलिना न दृष्टम्॥

अथ प्रकृतिभूतेभ्य इति पक्षः।

तत्रापि किं शृङ्गाराद्धास्यो जायते ? उत शृङ्गार एव हास्यो भवति ?

किं चातः ?

यदि शृङ्गाराद्धास्यो जायते, तदिष्यत एव।

Showing 371 to 380 of 1530 verses