बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं॥ १०५॥
केयं मूर्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु कान्तेन्दुयुक्ते कान्ताप्यत्रैव कामिन्ननु भवति मया पृष्ठमेतावदेव।
नाहं द्वन्द्व करोमि व्यपनय शिरसस्तूर्णमेनामिदानी— मेवं प्रोक्ते भवान्या प्रतिवचनजडः पातु वो मन्मथारिः॥ १०६॥
कुशलं राधे! सुखितोऽसि कंस! कंसः क्व, स क्व, सा राधा।
इति पालीप्रतिवचनैर्विलक्षहासो हरेर्जयति॥१०७॥
केशव! यमुनातीरे व्याहृतवानुषसि हंसिकां कोऽद्य।
कान्ताविरहभयातुरहृदयः प्रायः प्रियेऽहं सः॥ १०८॥