प्रश्नोत्तरोक्तिर्यथा—(अमरु. ७१)
क्व प्रस्थितासि करभोरु! घने निशीथे प्राणेश्वरो वसति यत्र जनः प्रियो मे।
एकाकिनी वद कथं न बिभेषि बाले! नन्वस्ति पुङ्खितशरो मदनः सहायः॥ १०९॥
कोऽयं कामिनि! भूषणं कितव ते शोणः कथं कुङ्कुमात् स्कूर्पासान्तरितः प्रिये विनिमयं पश्यापरं क्वास्ति मे।
पश्यामीत्यभिधाय सान्द्रपुलको मृद्न मृडान्याः स्तनौ हस्तेन प्रतिनिर्जितेन्दुरवतात् द्यूते हसन् वो हरः॥ ११०॥
विदग्धगोष्ठीविनोदहेतुः पर्यनुयोगनिर्भेदः प्रश्नोत्तरम्। तत्षोढा— बहिःप्रश्नम्, अन्तःप्रश्नम्, बहिरन्तःप्रश्नम्, जातिप्रश्नम्, पृष्टप्रश्नम्, उत्तरप्रश्नमिति। तेषु —
बहिःप्रश्नं यथा—(मज्जन्मकरः)
भद्र! माणवकाख्याहि कीदृशः खलु ते पिता।