भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 401 to 410 of 1676 verses
अस्तु वा, तथापि तत्प्रवर्तमानमर्थानुपपत्त्या प्रपत्स्यति। अर्थानुपपत्तिश्चाऽ— र्थान्तरमन्तरेण नोपशाम्यतीति तदेव कल्पनीयं भवति।

अथ शब्दस्यानुपपत्त्या शब्द एव कल्प्यते ?

तन्न, श्रोत्रप्रत्यक्षसमधिगतस्य स्वरूपेणानुपपत्तेरभावादर्थानुपपत्तिनिबन्धनमेवानु— पपद्यमानत्वम्, तच्‍चार्थकल्पन एवोपपद्यते।

न चैतद् वाच्यम्, कल्प्यमानस्यार्थस्यावैदिकत्वं प्राप्‍नोति। श्रूयमाणस्यैव हि शब्दस्यायमिषोरिव दीर्घदीर्घो व्यापारः। अविरतव्यापार एव हि शब्दे सा प्रतीतिरुदयते; तद्‍व्यापारविरतौ नोदेति, तदुत्पादकारणानुपलब्धेः। लोकश्च वृद्धव्यवहारतः शब्दार्थेषु व्युत्पद्यमानस्तथाभूतवाक्यव्यवहारिणो वृद्धान् पश्‍यन् वाक्यस्यैव तादृशि वाक्यार्थे सामर्थ्यमवधारयति। वाक्यार्थश्चेह विधिनिषेधादिरूप आख्याताद्यर्थः। तदनुवर्तीनि तु पदानि तस्मिन्नैमित्तिके निमित्तानि भवन्ति। नैमित्तिकानुकूलतया च क्‍वचिदश्रूयमाणान्यपि तानि विश्वजिदादौ स्वर्गकामादिपदवन्निमित्तभावेनाद्रियन्ते, क्‍वचिच्छ्रूयमाणान्यप्यननुकूलतया 'यस्योभयं हविरार्तिमार्च्छेद्' इत्यादिवत् परिह्रियन्ते। क्‍वचिदन्यथास्थितानि 'प्रयोजशेषेण हवींष्यभिघारयति' इतिवद् विध्यनुरोधात् प्रयोजशेषं हवींष्यभिधारयेदित्यन्यथावस्थाप्यते। तस्माद् यथा प्रथमावगतघनाकार— वाक्यार्थानुसारेण सतामसतां वा पदार्थानां निमित्तभावव्यवस्था तथैवाश्रूयमाणतथा— विधैकदेशादपि वाक्यात् तदर्थावगतिर्भविष्यतीति किं श्रुतार्थापत्त्या ?

एवं च न वाक्यशेषाध्याहारसोपानव्यवहितस्यार्थस्य शाब्दत्वम्, अपि तु साक्षादेव भवति।

नन्वेवमश्रूयमाणेषु निमित्तेषु कुतस्तदर्थमवगच्छामः ? अनवगच्छन्तश्च कीदृशं नैमित्तिकमवकल्पयामः ?

उच्यते—'श्रुतेष्वपि पदेषु तेषां निमित्तभावो न स्वमहिम्‍नाऽवकल्पते।

किं तर्हि ?

नैमित्तिकानुसारेण। स चाश्रुतेष्वपि भविष्यति। तथा हि— न यजौ करणविभक्तिः श्रूयते, न स्वर्गे कर्मविभक्तिः, अथ चार्थः प्रतीयते। एवं 'विश्वजिता यजेत' इति नैमित्तिकबलादेव स्वर्गकामादिपदाध्याहारार्थमुक्तश्लोकयोश्च यथोपन्य— स्तवाक्यशेषार्थं प्रत्येष्याम इति।

अत्र समाधीयते, यत्तावदुक्तमर्थानुपपत्त्यार्थान्तरमेव कल्पनीयमिति, तत्र नार्थमात्रस्यानुपपत्तिः।

Showing 401 to 410 of 1676 verses