अस्तु वा, तथापि तत्प्रवर्तमानमर्थानुपपत्त्या प्रपत्स्यति। अर्थानुपपत्तिश्चाऽ— र्थान्तरमन्तरेण नोपशाम्यतीति तदेव कल्पनीयं भवति।
अथ शब्दस्यानुपपत्त्या शब्द एव कल्प्यते ?
तन्न, श्रोत्रप्रत्यक्षसमधिगतस्य स्वरूपेणानुपपत्तेरभावादर्थानुपपत्तिनिबन्धनमेवानु— पपद्यमानत्वम्, तच्चार्थकल्पन एवोपपद्यते।
न चैतद् वाच्यम्, कल्प्यमानस्यार्थस्यावैदिकत्वं प्राप्नोति। श्रूयमाणस्यैव हि शब्दस्यायमिषोरिव दीर्घदीर्घो व्यापारः। अविरतव्यापार एव हि शब्दे सा प्रतीतिरुदयते; तद्व्यापारविरतौ नोदेति, तदुत्पादकारणानुपलब्धेः। लोकश्च वृद्धव्यवहारतः शब्दार्थेषु व्युत्पद्यमानस्तथाभूतवाक्यव्यवहारिणो वृद्धान् पश्यन् वाक्यस्यैव तादृशि वाक्यार्थे सामर्थ्यमवधारयति। वाक्यार्थश्चेह विधिनिषेधादिरूप आख्याताद्यर्थः। तदनुवर्तीनि तु पदानि तस्मिन्नैमित्तिके निमित्तानि भवन्ति। नैमित्तिकानुकूलतया च क्वचिदश्रूयमाणान्यपि तानि विश्वजिदादौ स्वर्गकामादिपदवन्निमित्तभावेनाद्रियन्ते, क्वचिच्छ्रूयमाणान्यप्यननुकूलतया 'यस्योभयं हविरार्तिमार्च्छेद्' इत्यादिवत् परिह्रियन्ते। क्वचिदन्यथास्थितानि 'प्रयोजशेषेण हवींष्यभिघारयति' इतिवद् विध्यनुरोधात् प्रयोजशेषं हवींष्यभिधारयेदित्यन्यथावस्थाप्यते। तस्माद् यथा प्रथमावगतघनाकार— वाक्यार्थानुसारेण सतामसतां वा पदार्थानां निमित्तभावव्यवस्था तथैवाश्रूयमाणतथा— विधैकदेशादपि वाक्यात् तदर्थावगतिर्भविष्यतीति किं श्रुतार्थापत्त्या ?
एवं च न वाक्यशेषाध्याहारसोपानव्यवहितस्यार्थस्य शाब्दत्वम्, अपि तु साक्षादेव भवति।
नन्वेवमश्रूयमाणेषु निमित्तेषु कुतस्तदर्थमवगच्छामः ? अनवगच्छन्तश्च कीदृशं नैमित्तिकमवकल्पयामः ?
उच्यते—'श्रुतेष्वपि पदेषु तेषां निमित्तभावो न स्वमहिम्नाऽवकल्पते।
नैमित्तिकानुसारेण। स चाश्रुतेष्वपि भविष्यति। तथा हि— न यजौ करणविभक्तिः श्रूयते, न स्वर्गे कर्मविभक्तिः, अथ चार्थः प्रतीयते। एवं 'विश्वजिता यजेत' इति नैमित्तिकबलादेव स्वर्गकामादिपदाध्याहारार्थमुक्तश्लोकयोश्च यथोपन्य— स्तवाक्यशेषार्थं प्रत्येष्याम इति।
अत्र समाधीयते, यत्तावदुक्तमर्थानुपपत्त्यार्थान्तरमेव कल्पनीयमिति, तत्र नार्थमात्रस्यानुपपत्तिः।