भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 401 to 410 of 746 verses
तत्प्रतीत्येककार्यत्वाद् वाक्यमप्येकमुच्यते॥ ७४॥

(प्रप.)

यच्‍च प्रकृतिप्रत्यययोः पदस्य चाभिधाने द्विरभिधानमुक्तं, तदपि न सम्यक्; प्रकृत्यान्वितस्यार्थो विधीयते, प्रत्ययश्च प्रकृत्यर्थान्वितं पदार्थान्वितं च स्वार्थं ब्रवीति, प्रत्ययार्थस्य प्रकृत्यर्थान्वितस्य पदान्तरार्थापेक्षित्वादिति कुतो द्विरभिधानम्।

नन्वेवं पदस्यान्विताभिधायित्वं न स्यात्, प्रत्ययस्यैव प्रकृतिसहितस्य पदत्वात्। किंचायमभिहितान्वयवादिनोऽपि तुल्यो दोषः। ततश्च—

यश्चोभयोः समो दोषः परिहारोऽपि वा समः।

नैकः पर्यनुयोक्तव्यस्तादृश्यर्थविचारणे॥ ७५॥

प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थं सहेति च।

यदाहुः सूरयस्तेन तद् द्वयं पदमिष्यते॥ ७६॥

(काशिका १.२.५६)

यच्‍चानभिहितपदार्थान्तरान्वितस्वार्थाभिधानपक्षे पदान्तरोच्‍चारणवैयर्थ्यमित्यादि, अभिधानपक्षे पुनरितरेतराश्रयादिदूषणमुक्तं, तदुभयपक्षानभ्युपगमेनैव निरस्तम्। यतो नास्माकमयं पक्षः प्रथमश्रुतान्येव पदानि स्वार्थानन्योन्यमन्वितानभिदधति, अपि तु यस्य यावन्तोऽर्थाः सम्भवन्ति तच्छ्रवणे तावन्तः स्मृतावुपस्थाप्यन्ते, ततश्चाकाङ्क्षासन्निधियोग्यतादिसम्पादितनियतमिथस्समन्वयाः पदैरेव स्मृत्युपारूढैर— भिधीयन्ते। तथाहि—यस्तावदगृहीतसम्बन्धो यस्य च सम्बन्धग्रहणसंस्कारो नोत्पन्नः प्रध्वस्तो वा स वाक्यार्थप्रतिपत्तौ नाधिक्रियते; यस्त्वनवभ्रष्टसम्बन्धग्रहणसंस्कारः स पदं पदं श्रुत्वा नूनं तावदिदं स्मरति—इदमिदमस्यार्थस्याकाङ्क्षितसन्निहित x x x ताश्रयमाधाराधेयसामान्यं पदद्वयात् तु परस्परोपहितव्यवच्छेदं प्रतीयते, तत x x x।

Showing 401 to 410 of 746 verses