सूईवेहे मुसलं विच्छुहमाणेण दड्ढलोएण।
एक्कग्गामे वि पिओ इमेहिं/समेहि अच्छीहि वि ण दिट्ठो॥ १००॥
(सुचीवेधे मुसलं विक्षिपता दग्धलोकेन।
एकग्रामेऽपि प्रिय आभ्याम्/समाभ्याम् अभ्यामपि न दृष्टः॥)
अत्र सूचीवेधे मुसलप्रवेशो न सम्भवति, जनस्तु तमपि करोतीत्यनेन मुख्यया लक्षितेन तस्यासम्भाव्यमानार्थवादिता लक्ष्यते। यथा—
चुंबिज्जइ सअहुत्तं अपवाहिज्जइ सहस्ससअहुंत्तं।
रमिअ पुणो वि रमिज्जइ पिए जणे णत्थि पुणरुत्तं॥ १०१॥१
(चुम्ब्यते शतकृत्वः अवरुध्यते सहस्रशतकृत्वः।
रन्त्वा पुनरपि रम्यते प्रिये जने नास्ति पुनरुक्तम्॥)
अत्र पुनरुक्तशब्दो व्यर्थवाक् पुनःप्रयोगविशेषे निरूढशक्तिः, क्रिया पुनःकरण— सामान्यं लक्षयति विपक्षि(?) चुम्बनादि x x x करणविशेषवैयर्थ्याय लक्षयति। एवम्—