ज्ञेयो रसः स रसनीयतयाऽऽत्मशक्तेः(/रक्तेः)१ रत्यादिभूमनि पुनर्वितथा रसोक्तिः॥ ८३॥
एतेन रूढाहङ्कारता२ रसस्य पूर्वा कोटिः। रत्यादीनामेकोनपञ्चाशतोऽपि विभावानुभावव्यभिचारिसंयोगात् परप्रकर्षाधिगमे रसव्यपदेशार्हता रसस्यैव मध्यमावस्था। 'प्रेयः प्रियतराख्यानम्' इत्युपलक्षणेन यथा रतेः प्रेमरूपेण परिणतिस्तथा भावान्तराणामपि परमपरिपाके प्रेमरूपेण परिणतौ रसैकायनमिति रसस्य परमा काष्ठेति प्रतिष्ठितं भवति। तथा हि — यथोर्जस्विन्यपकर्ताहमिति यत्ते चेतसि भयं, न मे खङ्गः पराङ्मुखेषु कदाचिदपि प्रहर्तुमुत्सहत इति रूढोऽहङ्कारः प्रतीयते, सैषावन्ती मयात्रैव जन्मनि लब्धेति धिक् ते वृथाप्रतिज्ञो मानपरिग्रह इति, उर्वीविजयाद्यकृत्वा कथं पार्थिवो भवेयमिति, न मयेदृशाः शाखिनः क्वचिदपि दृष्टा इति, अनेन मे द्रौपदी केशेष्वाकृष्टेति, धन्यो मघवा यस्यैतदायुधमिति, सा मे देवी चितामध्यास्त इति, धिक् कौणपाः शोणितमान्त्रभूषणाः पिबन्तीति, अस्ति मे सन्तोषो मनस इति, यथेयं मे प्रिया तथाहमप्यस्या यतो मदनुकूलमेवैषापि चेष्टत इति, मयि धृतायुधे किमायुधान्तरैरिति सर्वत्रैवाहङ्कारः प्रतीयते।
कथं पुनर्विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः ?
उच्यते, यथेन्दुसन्निधेर्गण्डकः स्यन्दते, यथार्कसन्निधेस्सूर्यकान्तो ज्वलति, यथा कर्पूरसन्निधेः स्फटिको विलीयते तथा तेभ्यस्तेभ्य आलम्बनविभावेभ्यस्तत्तदाकार— परिणतेन्द्रियबुद्धयुपाधियोगिनोऽभिमानिमनसस्ते ते रतिक्रोधशोकादयो भावाः समुत्पद्यन्ते। ते रत्यादयो यथा—(मामा. ३.५)
आश्चर्यमुत्पलदृशो वदनामलेन्दुसान्निध्यतो मम मुहुर्जडिमानमेत्य।
जात्येन चन्द्रमणिनेव महीधरस्य सन्धार्यते द्रवमयो मनसो विकारः॥ ८४॥
१. द्र. अत्रैव १.८ ; ११.७ २. अहमित्येवाहङ्कारः यथा ओमित्येव ओङ्कार इंति 'कारः' स्वार्थक एवेति नात्र गर्वदोषः।
क्रोधादयो यथा— (राच. १९.८९)
तेनाथ नाथ दुरुदाहरणातपेन सौम्यापि नाम परुषत्वमभिप्रपन्ना।
जज्वाल तीक्ष्णविशदाः सहसोद्गिरन्ती वागर्चिषस्तपनकान्तशिलेव सीता॥ ८५॥