वेलान्दोलितकल्लोलः कीदृशश्च महोदधिः॥ १११॥
काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम्।
कथमुक्तं न जानासि कदर्थयसि यत्सखे॥ ११२॥१
१. कथमुक्तं 'क+थ'—वर्णाभ्यां 'कदर्थयसी'—ति क्रियापदे विद्यमानाभ्यां मुक्तं ताभ्यां हीनं 'दर्यसि' इति यत् तदेवात्रोत्तरम्।
सुभद्रां क उपायंस्त प्रश्नेऽमुष्मिन् य उत्तरः।
('नर' इति) स कीदृक्कपिमाचष्टे व्योम्नि पर्णस्थितिः कुतः१॥
जातिप्रश्नं यथा—(हैमवार—करञ्जिना)