कीदृशा भूमिभागेन राजा स्नातोऽनुमीयते।
प्राङ्गणं कुरुतेत्युक्ताः किमाहुस्तदनिच्छवः॥ ११४॥
पृष्टप्रश्नं यथा— (सक. पृ.३०३—४)
को सो जोअणवाओ को दंडाणं दुवे सहस्साइं।
(कस्स योजनपादः को दण्डानां द्वे सहस्त्रे।)
का काली का मधुरा किं शुकपृथुकाननच्छायम्॥ ११५॥
किं वसन्तसमये वनभक्षः पृष्टवान् सपृथुलोमविलेखः।
उत्तरं च किमवापतुरेतौ काननादतिमिरादपि कालम् (ली)॥ ११६॥