इतिहासे काव्यविनिवेशः काव्येतिहासः, यथा—(माघ. १.४६)
स सञ्चरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः॥ १०३॥
इतिहासे शास्त्रार्थविनिवेशनं शास्त्रेतिहासः, यथा—(महाभा. १८.५.३८)
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्॥ १०४॥
उक्तिप्रत्युक्तिर्वाकोवाक्यम्। सा षोढा—
ऋजूक्तिः, वक्रोक्तिः, वैयात्योक्तिः, गूढोक्तिः, प्रश्नोत्तरोक्तिः, चित्रोक्तिः इति। तासु
ऋजूक्तिर्यथा—(अमरु. ५७, पृ. ५११)