अहमिव शून्यमरण्यं वयमिव तनुतां गतानि तोयानि।
अस्माकमिवोच्छ्वासा दिवसा दीर्घाश्च तप्ताश्च॥ ७५॥
प्रत्यक्षादिप्रमाणापेक्षया यथा—(अम.श. १६०)
दृष्टे लोचनवन्मनाङ् मुकुलितं पार्श्वस्थिते वक्त्रव— न्न्यग्भूतं बहिरासितं पुलकवत् स्पर्शं समातन्वति।
नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि॥ ७६॥
क्रियासु योग्यत्वम् अधिकारः।
अर्थी समर्थः शास्त्रेणापर्युदस्त इति। तथा अर्थित्वमधिकारकाणम्; परं हि पुरुषार्थं मोक्षमाचक्षते, तस्मादप्यनर्थी जुगुप्सते प्रमाद्यति च। तद्यथा—