भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 341 to 350 of 1676 verses
कथं पुनरमभिन्नरूपो वतिः क्‍वचित् प्रकृत्यर्थधर्मानन्यत्रातिदिशति क्‍वचित् सम्बन्धिधर्मान् ?

उच्यते यत्र 'तेन तुल्यं क्रिया चेद्वतिः' तत्र प्रकृत्यर्थधर्मान्; यत्र तु 'तत्र तस्येव' तत्राधेयसम्बन्धिधर्मानिति।

तदेवमुपमानेषु प्रसिद्धा धर्माः उपमेयेष्वारोप्यन्त इत्यतिदेशार्थः। प्रसिद्धिश्च क्‍वचिल्लोकापेक्षया, क्‍वचित्प्रयोक्त्रपेक्षया, क्‍वचित्प्रत्यक्षादिप्रमाणापेक्षयेति। तत्र लोकपेक्षया यथा—

जोण्हाए व्व मिअंकं कित्तीएँ सुअरिसं पहाए व्व रइं।

सेलं महाणई व सिरीअ चिरणिग्गआइ वि अमुच्‍चंतं॥ ७३॥

(ज्योत्स्‍ययेव मृगाङ्कं कीर्त्त्येव सुपुरुषं प्रभयेव रविम्।

शैलं महानद्येव श्रिया चिरनिर्गतयाप्यमुच्यमानम्॥)

यथा वा— (माघ. १४.१६)

यस्तवेह सवने न भूपतिः कर्म कर्मकरवत् करिष्यति।

तस्य नेष्यति वपुः कबन्धतां बन्धुरेष जगतां सुदर्शनः॥ ७४॥

Showing 341 to 350 of 1676 verses