इक्षुदण्डस्य मद्य/ण्डस्य दध्नः पिष्टकृतस्य च।
वराहस्य च मांसस्य सैष गच्छति फाल्गुनः॥ ११३॥
प्रकृष्टा यथा—(मवीच. ३.२)
संज्ञप्यते वत्सतरी सर्पिष्यन्नं च पच्यते।
श्रोत्रिय ! श्रोत्रियगृहानागतोऽसि जुषस्व नः॥ ११४॥
लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः॥ ११५॥