भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 521 to 530 of 1530 verses
अर्थगुणानां दोषगुणानां च यथा—

किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः।‍

अस्मिन् मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः॥ ११५॥

अत्र दीप्‍तरसत्वं कान्तिः, अर्थप्राकट्यं प्रसादः, अक्तार्थनिर्वहणं प्रौढिरित्यर्थगुणाः; दैवहतिके विषपादपोऽयं पाप इत्याद्यमङ्गलार्थं ग्राम्यम्, किमनेन संवर्धितेनेत्यत्र मदनज्वरसन्निपात इत्यत्र च कर्तव्यप्रयोजनादेर्विरहिणो द्रष्टुरित्यादेश्चा— ध्याहारादसम्पूर्णवाक्यतायामर्थव्यक्तिविपर्ययः, अस्मिन् विकासविकारभाजीति विकासशब्दस्य पुष्पविषयत्वाद् वृक्षेऽपि प्रयोगेऽवाचकत्वादसमर्थमिति दोषगुणा मिथः सङ्कीर्यन्ते। यतो रसाक्षपात् परिहासलेशोक्त्योरमङ्गलं, प्रविश पिण्डींद्वारं द्वारमिति न्यायात् प्रसिद्धाध्याहारः, दरी वदति, मञ्चाः क्रोशन्तीति प्रयोगदर्शनादा— धाराधेययोरभेदोपचारश्च विरुद्धलक्षणादिभिः प्रयुज्यमानो न दोषायेति।

(२. रससङ्करः —६)

अस्तु नाम गुणानां शब्दार्थदोषगुणभेदात् त्रैविध्ये निरुल्लेखतया सोल्लेखतया च सङ्करव्यवहारः, रसानां तु वीराद्भ‍ुतादीनां निरस्तत्वात् कथमिवैकः श्रृङ्गारो अनेकसाध्यं सङ्करव्यवहारं वर्तयति ?

उच्यते — यद्यपि श्रृङ्गार एवैको रसः; तथापि तत्प्रभवा ये रत्यादयः; तेऽप्युद्दीपनविभावैरुद्दीप्यमानास्तदनुप्रवेशादेव सञ्चारिणामनुभावानां च निमित्तभाव— मुपयन्तो रसव्यपदेशं लभन्ते। यथा —

ह्यभिमानो रत्यादीनां निमित्तं चेतसा रस्यमानो रसः तथा रत्यादयोऽपि हर्षधृतिचिन्तौत्सुक्यादीनां मनोवाक्कायबुद्धिशरीरारम्भाणां च निमित्तमभिमानानुप्रवेशेनैव चेतसा रस्यमाना रसा इत्युच्यन्ते। युगपदभिधाने च सङ्करव्यवहारं कल्पयन्ति। ते तूत्पत्तौ भावाः, प्रकर्षे रसाः, विपर्यये भावरसाभासाः, प्रविलये तत्प्रशमा इति प्रभिद्यमानाः सङ्कीर्यन्त इति।

तत्सङ्करः षोढा — भावसङ्कर, रससङ्कः, भावाभाससङ्करः, रसाभाससङ्करः, भावप्रशमसङ्करः, रसप्रशमसङ्कर इति। तेषु

भावसङ्करो यथा— (मवीच. ५.३२)

Showing 521 to 530 of 1530 verses