तथाप्यग्राम्यतैवैनं भारं वहति भूयसा॥ १२९॥
श्रृङ्गार एव मधुरः परप्रह्लादनो रसः।
तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति॥ १३०॥
श्रृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत्।
माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः॥ १३१॥
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः।
तद्वयक्तिहेतू शब्दार्थावोजोऽधिष्ठाय तिष्ठति॥ १३२॥