विनयेन विना का श्री. का निशा शशिना विना।
विना यमकचित्राभ्यां कीदृशीव विदग्धता॥ १६४॥
गूढं गूढचतुर्थादि वादिनां दर्पशान्तये।
प्रश्नोत्तरं तु नाम्नापि विदग्धमुखमण्डनम्॥ १६५॥
क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे।
परव्यामोहने चापि सोपयोगाः प्रहेलिकाः॥ १६६॥
यथामति यथायुक्ति यथौचित्यं यथारुचि।