प्रथममरुणच्छायस्तावत्ततः कनकप्रभ—
स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः।
प्रभवति पुनर्ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः॥ ११०॥
स्थानार्थसङ्करो यथा— (कुसं. ५.६४)
स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सङ्गनिपातचूर्णिताः।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः॥ १११॥
हृत्कण्ठवक्त्रश्रोत्रेषु कस्य नावस्थितं तव।
श्रीखण्डहारकर्पूरदन्तपत्रप्रभं यशः॥ ११२॥