शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम्।
धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम्॥ १३८॥
(३) अप्रतिबन्धा तु एकगुणा, द्विगुणा, त्रिगुणा (चतुर्गुणा) च। तत्र—
भ्रुकुटिरारचिता, गतमग्रतो हृतमथाननमुक्तमसाधु वा।
इयमपि प्रभुता क्रियते बलादकुपितोऽपि हि यत् कुपितो जनः॥ १३९॥
किंकिरातेन यच्चक्रे समाकृष्य शिलीमुखान्।
शिलीमुखान् समाकृष्य किं किरातः करोति तत्॥ १४०॥