सेयं पश्यति, नो कुरङ्गकवधूस्त्रस्तेयमुद्वीक्षते
तस्याः पाणिरयं, न मारुतचलः पत्राकृतिः पल्लवः।
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा, नो कोकिलः कूजति॥ १४१॥
चतुर्गुणा खल्वपि यथा— (किराता. ९.३९, ४०)
उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः॥ १४२॥
किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः।
योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे॥ १४३॥
सख्या वा नायिकाया वा सखीनायकयोरथ।