दीर्घकरणादर्थभेदो यथा— विश्वामित्रो विश्वानर इति ऋषिः, संज्ञा च प्रतीयते।
अनुनासिककरणादर्थभेदो यथा— 'गम्भीरआँ अपः अत्र' (गभीर आँ उग्रपुत्रे; अभ्र आँ अपः) (ऋवे. ८.६७.११, ५.४८.१); 'आङोऽनुनासिकश्छन्दसि' (६.१.१२६) इति ईषदादिर्थः प्रतीयते।
न स्थाणुदिनं (अननुनासिकं ?) यथा— (उराच. २.३१)
आ ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति॥ १४६॥
२. उदात्तादयो यथा— कलो रवोऽस्येति कलरवः, एकः पुत्रोऽस्येत्येकपुत्र इति। समासे बहुव्रीहिस्वरो भवति, स च पूर्वपदस्यावन्तोदात्तः। कलश्चासौ रवश्च, एकश्चासौ पुत्रश्चेति समासे कर्मधारयस्वरो भवति। स च 'समासस्य' (६.१.२२३) इति समासस्यान्तोदात्तो भवति। ताभ्यां चान्यपदार्थ उत्तरपदार्थश्च प्रतीयते। तदुक्तम्—
संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति।
शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते॥ १४७॥
आदिग्रहणेनानुदात्तस्वरितैकश्रुतयः सङ्गृह्यन्ते। तत्र —
अनुदात्तादर्थभेदो यथा— पूर्वोक्तयोरेवोदाहरणयोरन्यपदार्थः प्रतीयते, नोत्तरपदार्थ इति।