भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 601 to 610 of 1087 verses
दीर्घकरणादर्थभेदो यथा— विश्वामित्रो विश्वानर इति ऋषिः, संज्ञा च प्रतीयते।

अनुनासिककरणादर्थभेदो यथा— 'गम्भीरआँ अपः अत्र' (गभीर आँ उग्रपुत्रे; अभ्र आँ अपः) (ऋवे. ८.६७.११, ५.४८.१); 'आङोऽनुनासिकश्‍छन्दसि' (६.१.१२६) इति ईषदादिर्थः प्रतीयते।

न स्थाणुदिनं (अननुनासिकं ?) यथा— (उराच. २.३१)

आ ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति॥ १४६॥

२. उदात्तादयो यथा— कलो रवोऽस्येति कलरवः, एकः पुत्रोऽस्येत्येकपुत्र इति। समासे बहुव्रीहिस्वरो भवति, स च पूर्वपदस्यावन्तोदात्तः। कलश्चासौ रवश्च, एकश्चासौ पुत्रश्चेति समासे कर्मधारयस्वरो भवति। स च 'समासस्य' (६.१.२२३) इति समासस्यान्तोदात्तो भवति। ताभ्यां चान्यपदार्थ उत्तरपदार्थश्च प्रतीयते। तदुक्तम्—

संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति।

शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते॥ १४७॥

(माघ. १४.२४)

आदिग्रहणेनानुदात्तस्वरितैकश्रुतयः सङ्गृह्यन्ते। तत्र —

अनुदात्तादर्थभेदो यथा— पूर्वोक्तयोरेवोदाहरणयोरन्यपदार्थः प्रतीयते, नोत्तरपदार्थ इति।

Showing 601 to 610 of 1087 verses