भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 611 to 620 of 1087 verses
स्वरितादर्थभेदो यथा— भ्रातृव्य इति भ्रातुरपत्यं प्रतीयते, न सपत्‍नः।

एकश्रुतेरर्थभेदो यथा— आगच्छ भो माणवक देवदत्त३ (मभा. १.२०.३३)

'अग्‍निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपां रेतांसि जिन्वतो३म्॥' (ऋवे. ८.४४. १६, काशिका १.२.३४)१ यत्रैकश्रुतेः यथा X X X दूरादाह्वानमज्ञक यथा— X X X सन्धीयते X X X तत्स्वरोऽपि तात्स्थ्यात् प्रगृह्य इत्युच्यते; ततोऽर्थभेदो यथा— 'आली आगच्छामि ताम् इतः' इति सखीभ्यामिवागन्तव्यम् इत्यर्थः प्रतीयते, नागन्तूनां पङ्क्तिरस्माद् इति।

आदिग्रहणेन सन्धेयसंवृता संगृह्यन्ते। तत्र —

सन्धेयादर्थभेदो यथा— आङ्गिरस इति;

1. इतः परम् आङ्गिरस इत्यन्तं भागं राघवो यथा तथा व्याकृत्य श्रान्तोऽस्फुटार्थ एष इति मन्वानो विरराम।

(विच्छेदः)

विच्छेदस्त्रिधा— १. पदविच्छेदो, २. वाक्यविच्छेदो, ३. यतिविच्छेदश्च। तेषु—

(१) पदविच्छेदः चतुर्धा— शृङ्खला, भङ्गः, परिवर्तकः, चूर्णकम् इति। तेषु—

शृङ्खला यथा— 'कान्तारतरुतलासितमृगयुवरचितान्तरा हरत्यटवी' इति। अत्र यदा कान्तारः तरुतलः आन्तरा इति पदच्छेदस्तदा प्रिया—सम्भोग—मणित— हर्षित—व्याधप्रधान—व्याप्‍तमध्या इति। सेयं शृङ्खलेवान्योन्यसङ्कलाच्छृङ्खला।

Showing 611 to 620 of 1087 verses