भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 621 to 630 of 1087 verses
भङ्गो यथा— जाय X X X X वाक्यं निन्दार्थं क्रियते सेयं पदद्वैधीभावो भङ्गः।

परिवर्तको यथा— 'कलिकामधुगर्हणा' इत्यविकृतमेव विच्छिद्यते, (तदा) कुट‌्मलमकरन्द— निष्यन्देत्यर्थप्रतीतिः; यदा तु किलकामधुक् अर्हणेति तदा पूजनैव कलिकाले कामधेनुरिति; सोऽयं गकारककारयोः परिवर्तने परिवर्तकः।

चूर्णकं यथा— 'पश्‍यं सलिलं पयोधेर्दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तम्'; मत्स्यानां वल्लभं पयोधेर्जलमवलोकयेत्यर्थः; यदा तु दूरसम् उन्मुक्तशुक्तिमीनाङ्कान्तमिति, तदा दुःखेन रसनीयं उद्वान्तमौक्तिकाधारं मत्स्यचिह्नितपर्यन्तं जलमवलोकयेति। अत्र शुक्तीत्यस्य संयोगाक्षरस्य दूरसमित्यत्र रेफस्य च चूर्णनिमित्तं चूर्णकम्।

(२) वाक्‍यविच्छेदोऽपि चतुर्धा— वाक्‍यसम्भेदो, वाक्‍यान्यथात्वं, वाक्‍यासमाप्‍तिः, वाक्‍यानुच्‍चारणम् इति; तेषु—

१. वाक्यसम्भेदो यथा—

दिङ्‌मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्‍त।

विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत् कथाद्‍भुतमिदं यत्रैव चास्तं गतम्॥ १४८॥

अत्र वदन्त एव हि वयं रोमाञ्चिताः पश्‍यतेति वाक्‍यसम्भेदो वक्तुर्भावकत्वेन गुणविशेषविज्ञानातिशयप्रकाशनं प्रतिपादयति।

२. वाक्यान्यथात्वं यथा— (वेसं. २.५)

सहभृत्यगणं सबान्धवं सहमित्रं सबलं सहानुगम्।

Showing 621 to 630 of 1087 verses