भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 621 to 630 of 746 verses
सापेक्षसमासो यथा— यज्ञदत्तस्य भ्रातृभार्या, विष्णुमित्रस्य गुरुकुलम्, चूतस्य फलरसः, प्रियायाः स्तनस्पर्श इति।

निरपेक्षसमासो यथा— वर्षशतमायुरस्य शतायुः, शाकप्रधानः पार्थिवः शाकपार्थिवः, अश्वयुक्तो रथोऽश्वरथः, अश्रेणयः श्रेणयः कृताः श्रेणीकृता इति।

पूर्वपदप्रधानो यथा— उपकुम्भम्, निर्मक्षिकम्, बहिर्ग्रामम्, पारेगङ्गमिति।

उत्तरपदप्रधानो यथा— आरूढवानरो वृक्षः, ऊढरथोऽनड्वान्, चित्रगुर्देवदत्तः, मत्तमातङ्ग वनमिति।

अन्यथाप्रधानो यथा— उन्मत्तगङ्गं, पञ्चकपालः, द्वित्राः, कृष्णशार इति।

अन्यथोपसर्जनो यथा— शाकप्रति, प्राप्‍तजीविकः, गोगर्भिणी, अग्‍निस्तोक इति।

तिङ्समासो यथा— अस्तिक्षीरा, एहिवणिजा, अश्नीतपिबता, खादतमोदतेति।

प्रातिपदिकसमासो यथा— दधिसेक्, चर्मक्रीति।

उपपदसमासो यथा— कुम्भकारः, पङ्कजम्, उष्ट्रक्रोशी, सहयुद्धेति।

प्रादिसमासो यथा— निष्कौशाम्बिः, उत्पश्यः, दुरासदः, सुप्रबोध इति।

Showing 621 to 630 of 746 verses