भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 611 to 620 of 746 verses
कः पुरस्य व्यपेक्षातो भेदः?

उच्यते व्यपेक्षायां सङ्ख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं चयोगः क्रमानियमो व्यवधानं यथेष्टमन्यतरेणाभिसम्बन्धः शब्दान्तरप्रयोगश्च भवति। एकार्थीभावे त्वैकपद्यमैकशब्द्यमैकस्वर्यमेकविभक्तित्वमेकवद्भाव एकशेषः अनेक— विधानामैक्यमेकविधानां चानैक्यमिति। तद्यथा व्यपेक्षायां सङ्ख्याविशेषः—'राज्ञः पुरुषः, राज्ञोः पुरुषः, राज्ञां वा पुरुषः।' एकार्थीभावे तु तदभावो राजपुरुषः। व्यपेक्षायां व्यक्ताभिधानं राज्ञः पुरुषः; एकार्थीभावे तु राजपुरुष इत्यत्र लोण्मध्यमपुरुषैकवचनं विभक्तिलोपो वेति नाभिधानव्यक्तिः। व्यपेक्षायामुपसर्जनस्य विशेषणं ऋद्धस्य राज्ञः पुरुषः, एकार्थीभावे तदभावः, राजपुरुषः। व्यपेक्षायां चयोगः, राज्ञः पुरुषो ब्राह्मणस्य च, एकार्थीभावे तु राजपुरुषः। व्यपेक्षायां क्रमानियमो राज्ञः पुरुषः, पुरुषो राज्ञः, एकार्थीभावे तु राजपुरुष इत्येव। व्यपेक्षायां व्यवधानमपि राज्ञः, पुरुषोऽयं पुरुषोऽयं राज्ञः; एकार्थीभावे तु राजपुरुष इत्येव। व्यपेक्षायां यथेष्टमन्यतरेणाभिसम्बन्धः, राज्ञः पुरुषो भार्या वेति; एकार्थीभावे तु नियमतः पुरुषेणैव सम्बन्धो न भार्यया। व्यपेक्षायां शब्दान्तरप्रयोगो दध्‍नोपसिक्तं, परिग्लानोऽध्ययनायः एकार्थीभावे तु नैवम्, दध्योदनं पर्यध्ययन इति। एकार्थीभावे ऐकपद्यं यथा—'आत्मनातृतीयः कण्ठेकाल'इति; एकशब्द्यं यथा— 'पितरौ भ्रातराविति; ऐकस्वर्यं यथा—'चित्रगुः, ब्राह्मणकम्बल' इति; एकविभक्तित्वं यथा— 'नीलोत्पलं, राजपुरुष' इति; एकवद्भावो यथा— गवाश्वं, प्लक्षन्यग्रोधा इति। एकशेषो यथा— अक्षा वृक्षा इति। अनेकविधानामैक्यं यथा— पुत्रमिच्छत्यात्मनः पुत्रीयति, मुण्डं करोति मुण्डयतीति। एकविधानामनैक्यं यथा— कंसवधमाचष्टे कंसं घातयति, पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयतीति। व्यपेक्षायां तु नैवमिति॥

सोऽयमेकार्थीभावो व्यपेक्षावैलक्षण्येन विप्रथमानस्समानस्समासतद्धिताख्यादिषु त्रिषु त्रिधा विख्यायते — वाक्यतुल्यार्थः, वाक्याधिकार्थः, वाक्यान्यार्थ इति। तेषु— वाक्यतुल्यार्थो यथा— वीरः पुरुषो वीरपुरुषः, कष्टं श्रितः कष्टश्रित इति।

वाक्याधिकार्थो यथा— 'गुडेन मिश्रा धानाः गुडधानाः, शङ्कुलया कृतः खण्डः शङ्कुलाखण्ड' इति।

वाक्यान्यार्थो यथा— 'कुशं लातीति कुशलः, प्रकृष्टो वीणायां प्रवीणः'॥

अथायं त्रिप्रकारोऽप्यनेकधा भिद्यते। तद्यथा — नित्यसमासः, नित्यासमासः, असमर्थसमासः, अलुक्समासः, सापेक्षसमासः, निरपेक्षसमासः, पूर्वपदप्रधानः, उत्तरपदप्रधानः, उभयपदप्रधानः, अन्यपदप्रधानः, अन्यथाप्रधानः, अन्यथोपसर्जनः, तिङ्समासः, प्रातिपदिकसमासः, उपपदसमासः, प्रादिसमासः, नञ्समासः, एकदेशिसमासः, सामान्यसमासः, विशेषसमासः, समानाधिकरणः, भिन्नाधिकरणः, उपमानससमासः, उपमेयसमास इति। तेषु —

नित्यसमासो यथा— लोहितशालिः, गौरखरः, उद्दालपुष्पभञ्जिका, दन्तलेखक इति।

नित्यासमासो यथा— अकिञ्चित्कुर्वाणः, अमाषं हरमाणः, अगाधमुत्सृप्‍ताः, छात्राणां पञ्चम इति।

असमर्थसमासो यथा— असूर्यंपश्या राजदाराः, अपुनर्गेयाः श्लोकाः, अश्राद्धभोजी ब्राह्मणः, अलवणभोजी भिक्षुरिति।

अलुक्समासो यथा— स्तोकान्मुक्तः, आत्मनातृतीयः, पश्यतोहरः, कण्ठेकाल इति।

Showing 611 to 620 of 746 verses