भूरिभारभराक्रान्ते बाधति स्कन्ध एष ते।
न तथा बाधते स्कन्धो यथा बाधति बाधते॥ १३०॥
२. कविभिरनिबद्धमप्रयुक्तम्, यथा—
कामचीकमथाः केऽमी त्वामजिह्वायकीयिषम्।
स सस्ति किं वचन्तीमे कम्बः शम्बं धरिष्यति॥ १३१॥
३. श्रुतिविरसं कष्टम्, यथा—(भामहा. १.५३)
वर्वर्ष्टि जलदो यत्र यत्र दर्धर्ष्टि चातकः।
यत्राश्वकर्णः पोफुल्ति स कालो मामजिह्लदत्॥ १३२॥
४. पादपूरणमात्रार्थमनर्थकम्, यथा—
बिभर्ति यश्च देहार्धे प्रियामिन्दुं तु मूर्धनि।