स वै देवः खलु त्वां हि पुनातु मदनान्तकः॥ १३३॥
५. रूढिच्युतमन्यार्थकं, यथा—
ते दुःखमुच्चावचमावहन्ति ये प्रस्मरन्ति प्रियसङ्गमानाम्।
अत्राङ्प्रपूर्वौ वहतिस्मृधातू स्वार्थे प्रयुक्तौ न च तत्र रूढिः॥ १३४॥
६. तुच्छाभिधेयमपुष्टार्थम्, यथा—
शतार्धपञ्चांशभुजो द्वादशार्धार्धलोचनः।
विंशत्यर्धार्धमूर्धा वः पुनातु परमेश्वरः॥ १३५॥
जलं जलधरे क्षारमयं वर्षति वारिधिः।
इदं बृंहितमश्वानां ककुद्मानेष हेषते॥ १३६॥