तर्हि यस्य गवयो निर्ज्ञातः स्यात् गौरनिर्ज्ञातः, कर्तव्यं तेन गवय इव गौरिति।
बाढं कर्तव्यम्, यथा भेदसादृश्याध्यासितमूर्तयः पदार्थाः परस्परमनियमेनोप— मानोपमेयभावमधिगच्छन्ति, यथा चन्द्र इव मुखं कामिन्यां, मुखमिव चन्द्रो यामिन्याम्। यत्र पुनर्भेदसादृश्याध्यासितमूर्तित्वं न, तत्रोपमानोपमेयभावोऽपि न। यथा गौरिव गौः, गौरिवाश्व इति।
ननु य एते भेदसादृश्याध्यासिताः पदार्थास्ते नान्तरेण देशकाल— क्रियादिसम्पादितं विरोधं भवितुमर्हन्तीति सामानाधिकरण्यानुपपत्तिः?
नैवम्; यद्यप्युपमानमुपमेयं च परमार्थतो भिन्नं, तथाप्युपमानशब्दा गौणीं वृत्तिमाश्रित्योपमेये वर्तमानास्तयोर्भेदं तिरोदधति। तथा हि — यदा व्याघ्रादयः शौर्याद्यतिशयनिबन्धनमुपमानोपमेयसम्बन्धमनुभूय ततः उपमानोपमेयसम्बन्धाध्या— रोपिता भेदा उपमेये वर्तन्ते व्याघ्रसदृशोऽयं व्याघ्र इति, तदा पुरुषादिश्रुतिभिरभिन्ना— धिकरणाः समस्यन्त इति।
किं पुनरुपमानोपमेयप्रतिपत्तिनिबन्धनेभ्य एव शब्देभ्यः सादृश्यप्रतिपत्तिः? उत तेभ्यश्चान्येभ्यश्चेति?
यदि तेभ्य एव, पुरुषं व्याघ्रं च वीक्षस्वेत्यत्रापि स्यात्। इवप्रयोगवैयर्थ्यं च। अथ द्वितीयः पक्षः, पुरुषो व्याघ्र इवेत्येव स्यात्, न पुरुषव्याघ्र इति।
अस्तु तावत् प्रथमः पक्षः।
ननु चोक्तं पुरुषं व्याघ्रं च वीक्षस्वेत्यत्रापि सादृश्यप्रतिपत्तिः स्यात्। इह हि पुरुषव्याघ्रयोर्वीक्षणक्रियासमावेशमात्रं विवक्षितम्, न सादृश्यम्।