भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 651 to 660 of 746 verses
ननु विवक्षातोऽपि सादृश्यप्रतिपत्ताविवादिशब्दोपादानमनर्थकम्। यत्र मुख्यवृत्तिव्यतिक्रमेण गौणीं वृत्तिमाश्रित्योपमानशब्दा उपमेये प्रयुज्यन्ते तत्रैव इवादिशब्दविकलाः सादृश्यं गमयन्ति, यथा कश्चिदव्याघ्रं पुरुषं व्याघ्र इत्याह, तेन मन्यामहे व्याघ्रसदृशोऽयं पुरुषः। ततः व्याघ्रधर्माणां शौर्यबलवत्त्वादीनां व्याघ्रशब्दात् पुरुषे प्रतिपत्तिर्भविष्यति। यदा पुनरुपमानोपमेयशब्दा मुख्यार्थप्रतिपत्तये विवक्षितोपमानोपमेय— भावेषु वाक्येषु स्वरूपाभेदादशक्ताः सादृश्यमवगमयितुं, तदाऽपेक्षन्ते द्वितीयमिवादिशब्दप्रयोगमिति।

किं पुनरिहोदाहरणम्?

शस्त्रीव श्यामा शस्त्रीश्यामेति।

ननु चात्र श्यामाशब्दोपात्तस्य धर्मस्योपमानोपमेययोस्तुल्यतावद्योतनायेवशब्दः प्रयुज्यते। व्याघ्र इव पुरुष इत्यत्र तु सामान्यप्रयोगाभावात् कस्य पुरुषव्याघ्रयो— स्साधारण्यमिवशब्देनावद्योत्यत इति?

उच्यते— शब्दः क्वचिदभिधावृत्त्या अर्थं बोधयति, यथा गुडशब्दो गुडद्रव्यम्; क्वचिद् गमकवृत्त्या, यथा गुडद्रव्याविनाभावि माधुर्यम्, एवमिह व्याघ्रशब्देन व्याघ्राविनाभावि शौर्यादिकं गमितं, तस्य व्याघ्रपुरुषयोस्सादृश्यसिद्ध‍यर्थमुभ— याधिकरणतावद्योतनमिवेन क्रियत इति। एतेन शस्त्रीश्यामेत्यपि व्याख्यातम्। अत्राप्यनुपात्तमपि देवदत्ता इति गम्यते।

क्‍व पुनरयं श्यामाशब्दो वर्तते? शस्त्र्यामित्याह।

केन तर्हीदानीं देवदत्ता गम्यते?

समासेन। यदाह उपमानानि सामान्यवचनैः (२.१.५५) समस्यन्ते; समानत्वं च साधारण्ये सति स्यात्। तत्तु देवदत्तामन्तरेण नोपपद्यत इति।

यद्येवं शस्त्रीश्यामो देवदत्त इति न सिद्ध‍यति। उपसर्जनस्य (१.२.४८) इति ह्रस्वत्वं भविष्यति।

यदि तर्हि उपसर्जनान्येवंजातीयकान्यपि भवन्ति, तित्तिरिकल्माषी कुम्भकपाललोहिनीत्यनुपसर्जनलक्षण ईकारो न प्राप्‍नोति।

Showing 651 to 660 of 746 verses