अत्र यदा पादे पादे यतिस्तदा न्याय्योऽर्थः प्रतीयते; यदा त्वाज्ञासिद्धानि चत्वारि नेति पादमतिक्रम्य तदा अन्याय्य इति।
३. अर्धे यथा—(किराता. ९.३९)
उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि ! साध्वी।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः॥ १५४॥
अत्र यदार्धे यतिस्तदैकस्या एवेदं वाक्यमित्यन्योऽर्थः प्रतीयते; यदा तु तद्विच्छेदात् पाद एव यतिः क्रियते तदा द्वयोः बह्वीनां वा एकवाक्येनान्य इति।
येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः।
यस्याहुश्शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः॥ १५५॥
अत्र द्वादशसु सप्तसु चाक्षरेषु यतिस्थानम्, तदतिक्रमेण बलिजित्काय इति शशिमच्छिरोहर इति च यतिकरणे उमाधवो माधवश्च त्वामव्यादित्यर्थौ क्रमेण प्रतीयेते इति।