भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 651 to 660 of 1087 verses
(मनु. १२.११०)

अत्र यदा पादे पादे यतिस्तदा न्याय्योऽर्थः प्रतीयते; यदा त्वाज्ञासिद्धानि चत्वारि नेति पादमतिक्रम्य तदा अन्याय्य इति।

३. अर्धे यथा—(किराता. ९.३९)

उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि ! साध्वी।

आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः॥ १५४॥

अत्र यदार्धे यतिस्तदैकस्या एवेदं वाक्यमित्यन्योऽर्थः प्रतीयते; यदा तु तद्विच्छेदात् पाद एव यतिः क्रियते तदा द्वयोः बह्वीनां वा एकवाक्येनान्य इति।

४. स्थाने यथा—

येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः।

यस्याहुश्शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः॥ १५५॥

अत्र द्वादशसु सप्‍तसु चाक्षरेषु यतिस्थानम्, तदतिक्रमेण बलिजित्काय इति शशिमच्छिरोहर इति च यतिकरणे उमाधवो माधवश्च त्वामव्यादित्यर्थौ क्रमेण प्रतीयेते इति।

Showing 651 to 660 of 1087 verses