एवं तर्हि शस्त्र्यामेव शस्त्रीशब्दो वर्तते, श्यामाशब्दस्तु देवदत्तायाम्। एवमपि गुणोऽनिर्दिष्टो भवति। बहवश्च शस्त्र्यां गुणाः— 'सूक्ष्मा श्लक्ष्णा पृथुः श्यामे'ति।
अनिर्दिश्यमानस्यापि गुणस्य भवति लोके सम्प्रत्ययः। तद्यथा— चन्द्रमुखी देवदत्तेति। बहवश्चन्द्रे गुणाः, या चासौ प्रियदर्शनता सा गम्यते। यथा च व्याघ्रोऽयं पुरुष इति बहुष्वपि व्याघ्रगुणेषु शौर्यं बलवत्ता वा प्रतीयत इति। एवमपि 'समानाधिकरणेन' इति वर्तते। व्यधिकरणत्वात् समासो न प्राप्नोति।
यद्यपि तावद् वचनात् समासः स्यात्, मृगीव चपला मृगचपलेति समाना— धिकरणलक्षणः पुंवद्भावो न प्राप्नोति। एवं तर्हि तस्यामेवोभयं वर्तते। एतच्चात्र युक्तं यत्तस्यामेवोभयं वर्तते; इतरथा हि बह्वपेक्ष्यं स्यात्। यदा तावदेवं विग्रहः क्रियते 'यथा शस्त्री श्यामा एवं देवदत्ता' इति, तदा श्यामेति देवदत्तायामपेक्ष्यं स्यात्। यदाप्येवं विग्रहः क्रियते शस्त्रीश्यामा देवदत्तेति, तदापि श्यामेति शस्त्र्यापेक्ष्यं स्यात्। यदा तु शस्त्रीश्यामा चासौ श्यामा च शस्त्रीश्यामेति, तदा न किञ्चिदपेक्ष्यते, सामानाधिकरण्यं च भवति।
नन्वेवं सति शस्त्रीशब्दस्य देवदत्तायां प्रवृत्तिनिमित्तमनिर्दिष्टं भवति; प्रतीयमानं भविष्यतीति चेत्, किं तदिति पृच्छामि। यदि श्यामत्वमेव, श्यामेति शब्दस्योक्तार्थत्वादप्रयोगः प्राप्नोति। न हि गुणवृत्त्या प्रतिपादितेषु गुणेषु तदभिधानाय गुणवचनः प्रयुज्यते, न हि भवति पुरुषोऽयं व्याघ्रशूर इति। अथानभिहितं तैक्ष्ण्यादिकमुपादाय शस्त्रीशब्दो देवदत्तायां वर्तते, तर्हि तीक्ष्णश्यामगुणवचनयोः खञ्जकूणवत् समासे 'उपमानानि सामान्यवचनैः' इति विरुध्यते, श्यामशस्त्रीति प्रयोगः प्राप्नोति।
ननु पक्षत्रयेऽपि दोषदर्शनात् पक्षान्तराभावाच्च किन्न भवितव्यमेवोपमान— समासेन?
भवितव्यम्, किन्तु पूर्वोत्तरपक्षौ व्युदस्य मध्यमे पक्षे, शस्त्रीव श्यामा देवदत्ते— त्यवैयधिकरण्येऽपि वचनसामर्थ्यात्।
ननूक्तं तत्र मृगंचपलेति समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति, नैवम्। नेह पूर्वपदं शस्त्रीत्वेन (मृगीत्वेन) विवक्षितम्, अपि तु मृगत्वजातिमात्रेण, यथा मृगक्षीरं कुक्कुटाण्डमिति। 'उपामानसमासे गुणवचनस्य विशेषभाक्त्वात् सामान्यवचनत्वाप्रसिद्धिः'। यतः श्यामाशब्दोऽयं सादृश्यसिद्धये शस्त्रीशब्देनाभि— सम्बध्यमानो विशेषवचनः सम्पद्यते।
नैवम्; श्यामत्वस्य उभयत्र भावात् तद्वाचकत्वाच्च शब्दस्य सामान्य— वचनत्वप्रसिद्धेः।
न चावश्यं स एव सामान्यवचनः। यो बहूनां सामान्यमाह; द्वयोरपि यः सामान्यमाह, सोऽपि समान्यवचनः।