भूयसीनां सखीनां वा वाचि काकुरिह स्थिता॥ १४४॥
एवमन्या अपि कोऽहमित्यादयो द्रष्टव्याः।
स्वरास्त्रिधा — १. प्लुतादयः, २. उदात्तादयः ३. प्रगृह्यादयश्च। तेषु —
सुभ्रु ! त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्झिताः सुरभयः स्त्रग्गन्धधूपादयः।
कोपं रागिणि मुञ्च मय्युपनते दृष्टे प्रसीदाधुना सत्यं त्वद्विरहाद् भवन्ति दयिते ! सर्वा ममान्धा दिशः॥ १४५॥
तदेतत्प्रियतमाप्रसादनपरमपि वाक्यं दृष्टे इत्यत्र सम्बुद्धौ प्लुतस्वरकरणा— दुत्कुपितदृष्टिप्रसादनपरं सम्पद्यते। आदिग्रहणेन ह्नस्वदीर्घानुनासिकाः सङ्गृह्यन्ते। तत्र
ह्रस्वस्वरकरणादर्थभेदो यथा— अश्ववदिति (अश्वावति इति) सम्बोधनं प्रतीयते।