५. अदूरविप्रकर्षात् तु द्वयेन द्वयमुच्यते।
यथा सुरभिवैशाखौ मधुमाधवसंज्ञया॥ ११०॥
६. विभक्त्यर्थोऽथ वृत्त्यर्थः पदार्थश्चोपवर्णितः।
भावनादिप्रभेदेन वाक्यार्थश्च प्रकीर्तितः॥ १११॥
७. क्रियायाश्च पदार्थत्वाद् वाक्यार्थत्वमपाकृतम्।
कृतं च भावनायास्तदपदार्थत्वहेतुकम्॥ ११२॥
८. वाच्या विशेष्याः प्रत्याय्याः शब्दस्योक्ताः क्रियादयः।
अध्यासविपरीणामविवर्ताश्चास्य तान् प्रति॥ ११३॥
९. विभक्तिवृत्त्यर्थवतोरुपस्क्रियाप्रधानयोर्धाम पदार्थ इष्यते।